________________
तत्त्वार्थ-सूत्र
प्रथमोऽध्यायः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥ तन्निसर्गादधिगमाद्वा ॥३॥ जीवाजीवानववन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥ नामस्थापनाद्रव्यभावतस्तल्यासः ॥शा प्रमाणनये रधिगमः ।।६।। निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पवहुत्वैश्च ॥८॥ मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥६11 तत् प्रमाणे ॥१०॥ आद्य परोक्षम् ।।११।। प्रत्यक्षमन्यत् ॥१२॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिवोध इत्यनर्थान्तरम ॥१३॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ अवग्रहेहावायधारणा: ॥१शा वहुवहुविधक्षिप्रानिश्रितासंदिग्धध्रुवाणांसेतराणाम् ।।१६।। अर्थस्य ॥१७॥ व्यञ्जनस्यावग्रहः ॥१८॥ न चक्षुरनिन्द्रियाभ्याम् ।।१६।। श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् ॥२०॥ द्विविधोऽवधिः ॥२१॥