________________
३५६
तत्त्वार्थ-सूत्र .. जीवभव्याभव्यत्वादीनि च ||७|| उपयोगो लक्षणम् ॥ स द्विविधोऽष्टचतुर्भदः ॥६॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्काऽमनस्काः ॥११॥ संसारिणस्त्रसस्थावराः ॥१२॥ पृथिव्यम्बुवनस्पतयः स्थावराः ।।१३।। तेजोवायू द्वीन्द्रियादयश्च वसाः ॥१४|| पञ्चेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥१७॥ लव्ध्युपयोगी भावेन्द्रियम् ||१८|| उपयोगः स्पर्शादिषु ।।१६।। स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥२०॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२१॥ श्रुतमनिन्द्रियस्य ॥२२॥ वाय्वन्तानामेकम् ॥२३॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ।।२४|| संज्ञिनः समनस्काः ॥२॥ विग्रहगती कर्मयोगः ॥२६।। अनुश्रेणि गतिः ॥२७॥ अविग्रहा जीवस्य ॥२८॥ विग्रहवती च संसारिणः प्राक्चतुर्यः ॥२६॥ एकसमयोऽविग्रहः ॥३०॥ एकं द्वौ वाऽनाहारकः ॥३१॥