________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः कत्वात् , अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभि हितत्वादिति व्यभिचारः, समर्थनापुनवर्णात्माशब्दः कृतको निजकारणभेदेन भिद्यमानत्वाद घटपटादिवत् , घटादिदृष्टान्तेन हि वर्णानां कृतकत्व स्थापितमिति भवत्ययं स्थापनाकर्मेति, 'पडुप्पन्नविणासि' ति:-प्रत्युपन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविना शीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थ तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायोः स्वगृहहे कुलदेवतानिवेशनात् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यानादव्याजेन राजा. पराधपरिहारेण विनाशः कृत , एवं गुरुणा शिष्यान् कचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयता ज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तश्च होतिपडुप्पन्नविणासणंमि गंधव्विया उदाहरणं सो सोऽवि कत्थइ जइ अझो वज्जेज तो गुरुणा ॥१॥ छाया-भवति प्रत्युत्पअविनाशने गांधर्विकोदाहरणम् शिष्योऽपि कुत्रापि यदि अध्युपपद्यत तदा गुरुणोपायेन वारयितव्यः ॥१॥ वारेयव्वो उवाएणं' इति, अथवा अ. त्ति आत्मा अमूत्वात आकाशवत् इत्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षोणे दूषणे तदू विनाशायोच्यते-कतैवात्मा कथंचिन्मूत्वात् देवदत्तवदिति । व्याख्यातमाहरणं, आहरणताचैतभेदानां देशेनदोषवत्तया चोपनयाभावादिति, अथाहरणतद्द शो व्याख्यायते-स च चतुर्द्धा, तत्र अनुशासनमनुशास्ति:-सद्गुणोत्कीत्तनेनोपबृहणं सा विधेयेति यत्रोपदिश्यते साsनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितजः कणापनयनेन लोकसम्भावितशीलकलंका तत्क्षालनायराधितदेवताकृतप्राति
For Private And Personal Use Only