________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
जैनागमन्यायसंग्रहः हार्या चालनीव्यवस्थापितोदकच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तश्च-आहरणं तद से चउहा अणुसहि तह उवालंभो । पुच्छानिस्सा वयणं होइ सुभद्दाऽणुसट्ठीए ॥१॥ छाया- आहरणं तद्दे शे चतुर्धा अनुशास्तिस्तथोपालंभः। पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ ॥ १ ॥ साहुक्कार पुरोयं जह सा अणुसासिया पुरजणेणं। वेयावच्चाईसुवि एव जयंतेव चूहेजा ॥२॥ छायासाधुकार पूर्वकं यथासाऽनुशिष्टापौरजनेन । वैयावृत्यादिष्वपि एवं यतमानानप्युपबृहयेत् ॥ २ ॥ इति, इहच तथाविधवैयावृत्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्ति मात्रेणोपनयः कृत इत्याहरण तद्देश इति, एवमनभिमतांश त्यागादभिमतांशोपनयनमुत्तरे ध्वपि-भावनीयमिति, तथा उपालम्भनं उपालम्भो-भङ्गयन्तरेणानुशासनमेवस यत्राभिधीयते स उपालंभो यथाक्कचिदपराधवृत्तयो विनेयाउपालम्भनीयाः यथा महावीर समवसरणे सविमानागत चन्द्रादित्योद्योतेन काल विभागमजानती मृगावती नाम्नी साध्वी स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरायचन्दना समीपं गतो तयाचोपालब्धा-अयुक्तमिदं भवादृशीनामुत्तमकुंलजातानामिति, तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि किल कोणिकः श्रेणिकराजपुत्रः श्रमणंभगवन्तं महावीरं पमप्रच्छ। तद् यथाभदंत ! चक्रवर्ति. नोऽपरित्यक्त कामाः मृताः कोत्पद्यते । भगवताऽभिहितंसप्तमनरकपृथिव्यां, ततोऽसौ वभाण-अहं कोत्पत्स्ये । स्वामिनोक्त षष्टयां, स उवाच-अहं किं न सप्तम्याम् ? स्वामिनाजगदे-सप्तम्यां चक्रवर्तिनो यान्ति, ततोऽसवि
For Private And Personal Use Only