________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
६३ भिदधौ, किमहं न चक्रवतो ? यतो ममापि हस्त्यादिकं तत् समानमस्ति, स्वामिना प्रत्यूचे-तय रत्ननिधयो न सन्ति ततऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्र साधन प्रवृत्तः कृतमालिकयक्षण गुहाद्वारे व्यापादितः षष्ठी गत इति, तथा — निस्सावयणे त्ति निश्रया वचन निश्रावचनं, अयमर्थःकमपि सुशिष्यमालम्ब्य यदन्य प्रबोधार्थ वचनं तन्निश्रावचनं तद्यत्रविधेयतयोच्यते तदाहरणं निश्रावचनं यथा असहनान् विनेयान माईव सम्पन्नमन्यमालंव्य किञ्जिद् ब यात्, गौतममाश्रित्य भगवानिवेति तथाहिकिल गौतमतापसादि प्रव्रजितानां केवलोत्पत्तावनुत्पन्न केवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम ! चिर परिचितोऽसि गौतम ! मा त्वमधृतिं कार्षी रित्यादिनावचनसंदा हेनानुशासयता अन्येऽप्यनुशासिताः तदनुशासनार्थ द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तश्च-'पुच्छाए कोणिए खलुनिस्सावयणमिगोय मस्सामि । छाया-(पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी) । इति, ॥ व्याख्यातं तद्दशोदाहरणम् । तदोषोदाहरणमथ व्याख्यायते, तञ्चचतुर्द्धा तत्र 'अहम्मजुत्ते। ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तं तद्यथा उपायेन कार्याणि कुर्यात् कोलिकनलदामवत , तथाहि-पुत्रग्वादकमत् कोटकमार्गणोपलब्धबिलवासनामशेषमत्कोटकानां तप्तजलस्यविले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्त चणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविंदेन चौर्यसहकारि तालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वेव्या पदिता इति, आहरण तदोषता चास्याधर्मयुक्तत्वात् तथाविधश्नोतुरधर्मबुद्ध जनकत्वाच्चेति, अत एवं नैवं विधमुदाहर्जन्यं यतितेति पडिलो । त्ति
For Private And Personal Use Only