________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्योयसंग्रहः व्यस्य संसारानुत्तारकत्वं साधोश्च तदविपर्ययं वदता आचार्येण परमत दूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापना काम्र्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत् स्थपनाकर्म, किल मालाकारेण केनापि राजमार्गपुरीषोत्सर्गलक्षणापराधोपोहाय तत् स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिंगु शिवो देवोऽयमिति वदता व्यन्तरायतन स्थापनाकृतेति, एतस्मात् किलाख्यानकादुक्तार्थः प्रतीयते इतीदं स्थापनाकमैति, तथा नित्यानित्यं वस्त्वित्य संगतं जिनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद् व्यपोहायोच्यतेविरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पोहि क्रमभाविवर्णोल्लेखवान् विरुद्धधर्मोपेतो भवति, न च कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृतिनिवृत्योरकारणताम्यादसमंजसं चैवमिति, एवश्च विरुद्धधर्माध्यासस्य कथाश्चिदभेदकत्वे सति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपि तु सर्वमनेकान्तात्मकमिति विकल्पज्ञानेन स्वमतं प्रसाधितम, अतो विकल्पज्ञातं स्वमतस्थापनेन स्थापनाकर्मेति अत्र नियुक्तिगाथाः–'ठवणाकम्मं एक [अभेदमित्यर्थः] दिढतो तत्थ पुडरीयतु । अहवाऽवि सन्नढकण हिंगुसिवकयं उदाहरणं ॥१॥' छायास्थापनाकर्म अभिन्नं दृष्टान्तस्तत्र पुण्डरीक तु-अथवापि संज्ञाच्छादकहिंगु शिवदेवकृतमुदाहरणम् ।।१।। इति, सव्यभिचारो हेतुयः सहासोपन्यस्तस्तस्य समर्थनार्थ यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनकम्र्मेति, उक्तश्च-सर्वाभचारं हेडं सहसा बोत्तु तमेव अन्नेहिं । उबबूहइ सप्पसरं सामत्थं चऽप्पणो गाउं ॥१॥" छाया-सव्यभिचार हेतु सहसोकत्वा तमेवान्यैः, उपबृहयति सप्रसंगं सामथ्र्य चात्मनो ज्ञात्वा ॥१॥ ति, तद् यथा-अनित्यः शब्दः कृत
For Private And Personal Use Only