________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्राहः दुविहं तत्तो चबिहे केक । आहरणे तद्द से तहोसे चेवुवन्नासा ॥१॥ छाया-चरितं च काल्पकं वा द्विविधं ततश्चतुविधमेकैकं आहरणं तद्दशः तद्दोषश्च व उपन्यासः ॥ १।। इति, “ अवाये" अपायः-अनर्थः स यत्र द्रव्यादिष्वभिधीयते यथतेषु द्रव्यादिविशेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, स च चतु र्धाद्रव्यादिभि:-तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत् कारणत्वादपायोद्रव्यापाय, एतद् हेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत् प्रयोगो-द्रव्यापाय: परिहाय॑स्तत्र वाऽपायो वर्ततेदेशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमारणपरिणतयोः स्व प्रामाद् वहिः प्राप्तावनुतापात् ह्रदत्यक्तमत्स्यगिलित तद् वित्तयोमत्स्यवन्धकपार्थान गृहीतस्य तस्यमत्स्यस्य विदारणेऽवाप्त तद्रुव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तिमारित मातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्भ्रातृणिजोरिव, तत् परिहारश्च प्रव्रज्यया तत्त्यागादिति, आहरणता चास्यदेशेनोपनयस्याविवक्षणादिति, तथाक्षेत्रात क्षेत्रे वा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि तत् प्रयोगः-अपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथा दशार्हचक्र वर्जयामासेति, अथवा सम्भवत्यपायः स प्रत्यनीक क्षेत्रे ससर्पग्रहवत्, कालापायो यथा-सापायकाल वर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथ वचनोद्वादशवर्षलक्षणसापायकालपरिजिहीयोत्तरापथप्रवृत्तो द्वपायनोयथेति, अथवा सापायोऽपिभवति कालो रुद्रादिवदिति, तथा भावापायो यथाभावापायं परिहरेत् महानागवत् नागदत्तक्षुल्लकवद् वेति ,तथाहि
For Private And Personal Use Only