________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
८५
"
इति, अथवा तस्य - श्राहरणस्य दोषो यस्मिंस्तत्तथा शेषं तथैव, अयमन्त्र भावार्थ:- यतू साध्य विकलत्वादिदोषदुष्टं तद्दोष हरणं, यथा नित्य शब्दोऽमूर्त्तत्वात् घटवत् इहसाध्यसाधनवैकल्यं
नामदृष्टान्तदोषों, यच्च सभ्यादिवचनरूपं तदपि तद्दोषाहरणं यथा सर्वथाऽहमसत्यं - परिहरामि गुरुमस्तक कर्त नवदिति यद वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यंधर्ममिच्छन्ति लौकिक मुनयोऽपि - "वरंकूपशताद् वापी वरं वापीशतात् क्रतुः । वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् ॥ १ ॥ इतिवचन वक्तृनारदवदिति, अनेन च श्रोतुः पुत्र ऋतुप्रभृतिषु प्राय: संसारकारणेषुधर्मप्रतीतिराहितेति श्राहरणतदोषतेति, यथा वा - बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्वात् घटवत् सचेश्वर इति अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिद्धयतीति, ईश्वर
2
विवक्षित इति, तथा वादिना अभिमतार्थसाधनायकृते वस्तूपन्यासे तद् विघटनाय यः प्रतिवादिनाविरुद्धार्थोपनयः क्रियते पर्यनु योगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्र मपि ज्ञातभेदो ज्ञाततुत्वादिति यथा अकर्त्ता आत्मा अमूर्त्तत्वात् आकाशवदित्युक्ते अन्य आह - आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्ट चैतदिति, यथा वा मांसभक्षणमदुष्ट प्राण्यङ्गत्वादोदनादिवत् अत्राहान्यः - ओदनादि वदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्र पात्रादि संग्रहं न कुर्वन्ति ऋषभादिवत्, अत्राह कुण्डिकाद्यपि ते न गृह ति तद्वदेवेति तथा कस्मात् कर्म कुरुषे यस्माद् धनार्थीति इह प्रथमं ज्ञातं समग्रसाधर्म्यं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्यय मेषां स्वरूपविभाग इति, इह देशतः संवाद गाथा - चरियं च कप्पियं वा
For Private And Personal Use Only