________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
जैनागमन्यापसंग्रहः छाया -क्रोधाद्या. संपरायास्तैर्युतः संपरैति संसारम्। स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्म संपरायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति, वादरा:-स्थूराः सम्परायाः कषाया यस्य साधो यस्मिन् वा संयमेः स तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेष प्रागवदिति ।‘सुहुमे' त्यादि, सूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । अहवे त्यादि, संक्लिश्यमानः संयमः उपशमश्रेण्या: प्रतिपततः, विशुद्धयमानस्तामुपशमश्रेणी वा समारोहत इति । 'वादरे' त्यादि सूत्रद्वयं, बादर सम्पराय सरागसंयमस्य प्रथमाप्रथमसमयता संयम प्रतिपत्तिकालापेक्षया चरमाचरमसमयतातु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यात तदपेक्षयेनि, 'अइवे. त्यादि, प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपातीक्षपकस्येति । सरागस या उक्तोऽतो वीतरागसंयममा - 'वोयरागे' त्यादि, उपशान्ताः प्रदेशतोऽप्यवेद्यमाना: कषाया यस्य यस्मिन् वा स तथा साधुः संयमोवेति - एकादश गुणस्थानवर्ताति, क्षीणकषायो द्वादशगुणस्थानवाति, 'उवसंते' त्यादि सूत्रद्वयं प्रागिव 'खीणे? त्यादि, छादयत्यात्मस्वरूपं यत्तत् छद्मज्ञ नावरणादिघातिकर्म तत्र तिष्ठनोति छद्मस्थः-अकेवली, शेषं तथैव, केवलम उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलोति । 'छ उमत्थे' त्यादि, स्वयं बुद्धादिस्वरूपं प्रागिवेति, 'सयं बुद्ध' त्यादि नत्र सूत्राणि गतार्थान्येवेति ॥ (स्थानाङ्ग सूत्र ७२ उद्देश १) ।
मूल:-'अथवा तिविधे ववसाते पं० २०-- पच्चक्खे पञ्चतिते पाणुगामिए ॥ ५,
For Private And Personal Use Only