________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः अपढमसमय०, अहवा चरिमसमय० अचरिमसमय ० (सू०७२)
टीकाः-दुर्गतौ प्रपततो जोवान रुणद्धि सुगतौ च तान्-धारयती तिधर्मः श्रुतं-द्वादशाङ्ग तदेवधर्मः श्रुतधर्मः, चर्यते-श्रासेव्यते यत तेन वा चर्यते-गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति । 'सुयधम्मे' इत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेतिसूत्रं, सुस्थितत्वेन व्यापित्वेन च सुष्ठूतत्वादवा सूक्त सुप्तमिव वा सुप्तम् , अव्याख्यानेन प्रबुद्धावस्थत्वादिति भाग्यवचनंत्वेवं-सिञ्चतिखरइ जमत्थं तम्हा सुत्तं निरत्त विहिणो वा । सूएइ सवति सुब्बइ सिव्वइ सरए व जेणत्थं ॥१॥ छायासिञ्चति क्षरति यस्मादर्थं तस्मात् सूत्रं निरुक्तविधिना वा, सूचयति श्रवति श्रयते सिच्यते स्मयते वा येनार्थः ॥१॥ अविवरियं सुत्तपि व सुट्टियवावित्त ओ सुवुत्त ति छाया- अविवृतं सुप्तमिव सुस्थितव्यापित्वात सूक्तमिति ॥ अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थों-व्याख्यानमिति, आहच-'जो मुत्ताभिप्पाो सो अत्थो अजए य जम्हति' छाया-यः सूत्राभिप्राय: मोऽर्थाऽप्यते च यस्मादिति । ' चरित्ते' त्यादि, अगारं-गृह तदद्योगादागारा:- गृहिणस्तेषां यश्चरित्रधर्मः- सम्यक्त्वमूलाणुव्रतादि पालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगारा: साधव इति । चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे' त्यादि, सह रागेणअभिष्वङ्गण मायादिरूपेण य. स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम् । बोतो-विगतो रागो यस्मात् स चासो संयमश्च वोतरागस्य वा संयम इति वाक्यमिति । ' सरागे ' त्यादि, सूक्ष्म:-असंख्याताकट्टकावेदनतः सम्पराय:-कषायः सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनात् , आह च-कोहाइ संपराओ तेण जुओ संपरीति संसारं ति,
For Private And Personal Use Only