________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
जैनागमन्यायसंग्रहः
प्राधान्यमुक्तम् । अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम् । यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावत् मुक्त्यावाप्तिः संपद्यते यावदखिलकर्मेन्धानानल ज्वाला कलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपां चारित्र क्रियां न प्राप्नोति तस्मात् क्रियैव प्राधाना सर्व पुरुषार्थ सिद्धि कोरणं; प्रयोगश्चात्र यद्यत्समनान्तरभावि तत्तत् कारणं यथा अन्त्यावस्था प्राप्त पथिव्यादिसामग्रयनन्तरभावी तत् कारणोऽङ्कुरः क्रियानन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चैष चतुर्विधेसामायिके देशविरति सर्व विरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात् सम्यक्व श्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छति इति गाथार्थ ॥ ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशंक्यज्ञानक्रियानयमतप्रदर्शनानन्तरं स्थित पक्षं दर्शयन्नाह - _ "सव्वेसिपिगाहा, न केवलमनन्तरोक्त नयद्वयस्य' किं तर्हि ? सर्वेषामपि' स्वतंत्रसामान्यविशेषवादीनां नामस्थापनादिवादीनां वा नयानां "वक्तव्यतां' परस्परविरोधिनी प्रोक्ति "निशम्य' श्रुत्वा तदिह “सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्य, यत् किमत्याह- यच्चरण गुणस्थितः साधुः' चरणं चारित्रक्रिया गुणोऽत्रज्ञानं तयोस्तिष्ठतोति चरणगुणस्थ:, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदितिभावः, तथाहि-यत्तावज्ज्ञानवादिनाप्रोक्त -यद्येन विना न भवति तत्तन्निबन्धमेवेत्यादि, तत्र तदविनाभावित्त्वलक्षणो हेतुरसिद्ध एव. ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः काप्यदर्शनात् न हि
For Private And Personal Use Only