________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयद्वारम्
ज्ञाननयमतेन सामायिकम , अथ क्रियानयमतेन तद् विचार्यते-तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननय मतव्याख्यातामेवमेवगाथामाह -- "नायम्मी” त्यादि, इयं च क्रियानय मतेनेत्थंव्याख्यायते - इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेवप्रवृत्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः स्वस्थान एव योज्यते, एवंचमति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधान कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेषपूर्ववत् । अयमपि स्वपक्षसिद्धये युक्तीरुभावांतननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगणधरै क्रिया विकलानां ज्ञानं निष्फलमेव उक्त', सुबहंपि सुयमहीयं किं काही चरण विमुक्कस्स । अन्धस्स जह पलिता दीवसयसहस्स कोडोयि ।। १ ।। छाया-सुबहपि श्रुतमधीतं किं करिष्यति चरण विप्रमुक्तस्य । अधस्य यथा प्रदीप्ता दोपशत सहस्रकोट्यपि ॥ नाणं सविसयनिययं न नाण मित्तण कज निष्फत्ती, मग्गरणू दिटुंतो होइ सचिट्ठो अचिट्ठो य ॥ १२। छाया-ज्ञानं स्वविषय नियनं न ज्ञानमात्रेण कार्यनिष्पत्ति: । मागेज्ञो दृष्टान्तोभवति सचेट्रोऽचेष्टश्च ॥२॥ जाणतोऽविय तरिउ काइयजोगं न जुजई जो । सो वुझइ सोएणं एवं नाणी चरणहीणो । ३॥ छाया--जानन्नपि तरीतु कायिकयोग न युनक्ति यस्तु । स उह्यते स्त्रोतसा एवं ज्ञानी चरणहीनः ॥ ३॥ जहा खरो चंदण भारवाही " इत्यादि, छाया--यथा खरश्चन्दन भारवाही" इत्यादि, तथा अन्यरप्युक्तम् -- क्रियैव फलदापसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्य भोगज्ञो न ज्ञानात्सु खितोभवेद् ॥१॥ इति एवं तावत् क्षायोपशमिक चरणक्रियामङ्गीकात्य
For Private And Personal Use Only