________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयद्वारम्
४६ दाह पाकाद्यर्थिनां दहन परिज्ञानमात्रादेव तत् सिद्धिर्भवति, किन्तु तदानयनसंधुक्षणज्वालादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञान मात्रान्मुक्तिं साधयति, किन्तु यथाख्यात चारित्रक्रियातोऽपि , तस्मात् सर्वत्र ज्ञानक्रियाविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षरणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनेकान्तिकोऽप्यसाविति, एवं क्रिया वादिनापि यद्यत्समनन्तरभावि तत्तत् कारणमित्यादि प्रयोगे यस्तदनन्तरभावित्त्वलक्षणो हेतुरुक्तः सोऽप्यसिद्धो नैकान्तिकश्च तथाहि-स्त्री भक्ष्य भोगादिक्रिया कालेऽपि ज्ञानमस्ति तदन्तरणतत्र प्रवृत्तरेवायोगात् , एवं शैलेश्यवस्थायां सर्व संवर रूप क्रिया कालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तः, तस्मात् केवल क्रियानन्तर भावित्वेन पुरुषार्थस्य काप्यसिद्धर सिद्धो हेतुः, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्तयादि पुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावातदित्यनैकान्तिकताऽप्यस्येति, तस्मात् ज्ञान क्रियोभयसाध्यैव मुक्तयादि सिद्धिः, उक्तञ्च-हयं नाणं कियाहीणं हया अन्नाणो किया। पासंतो पंगुलोदड्ढो धावमाणो य अंधओ ||१छाया-हतं ज्ञानं क्रिया होनं हता अज्ञानतः क्रियापश्यन् पंगुर्दग्धो धावंश्चान्धः ।। संयोग सिद्धी अ फलं वयंति नहु एग चक्केण रहो पयाइ । अँधो य पंगू य वणे समेच्चा, ते संपउत्ता नयरं पविट्ठा ॥२॥ छाया-संयोग सिद्धयाफल फलं वदंति नैवैक चक्रेण रथः प्रयाति, अन्धश्च पंगुश्च वने समेत्य तौ सम्प्रयुक्तौ नगरं प्रविष्टौ ॥ २॥ इत्यादि, अत्राह नन्वेवं ज्ञान क्रिययोमुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपिकथंस्यात् ?
For Private And Personal Use Only