________________
Shri Mahavir Jain Aradhana Kendra
,
www.kobatirth.org
३७
दे वस्तुभेदाभ्युपगमात् तदेवंभूतं तद्धर्मास्तिकायादिकंवस्तु भरण, नतु प्रदेशादिरूपतया यतो देशप्रदेशौ ममावस्तुभूतौ अखण्डस्यैववस्तुन:सत्त्वेनोपयोगात् तथाहि प्रदेशप्रदेशिनोर्भदो वा स्यादभेदो वा १ यदि प्रथमः पचस्तर्हि भेदेनोपलब्धिप्रसंगो, न च तथोपलब्धिरस्ति, अथाभेदस्तर्हि धर्मप्रदेशशब्दयो पर्यायतैव प्राप्ता, एकार्थविषयत्वात् न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थं प्रतिपादने द्वितीयस्य वैयर्थ्यात, तस्मादेकाभिधानभिधेयं परिपूर्णमेकमेववस्त्विति, तदेवमेतेनिजनिजार्थ सत्यता प्रतिपादनपरा विप्रतिपन्ते नयाः, एते च परस्पर निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्चपरस्पर सापेक्षैः समुदितैरेव सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम्, उ
,
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम्
"
स्तुतिका रे -" उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ | दृष्टयः न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरितास्ववोदधिः ॥ १ ॥ एते च नया ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादि प्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद्बहुविचार विषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात् पृथगुक्ताः, तदेत् प्रदेशदृष्टांतेनेति निगमनम् । प्रस्थकादिदृष्टांतत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहर्शत - तदेतन्नयप्रमाणमिति । अनेन च दृष्टांतत्रयेण दिग्माप्रदर्शनमेव कृतं यावता यत्किमपि जीवादि वस्वास्ति तत्र सर्वत्र नयविचार: प्रवर्तते, इत्यलं बहुजल्पितेनेति ॥ १४५ ॥
1
अनुयोगद्वारसूत्र - मलधारीयावृत्तिः, प्रमाणद्वारम् ।
1
w
For Private And Personal Use Only