________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
जैनागमन्यायसंग्रहः सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कमधारयस्य, यथा नीलमुत्वलमित्यादि, ननु यदि वाक्यद्वयमत्र सम्भाव्यते तर्हि क्थं द्वौ समासौ भवत इत्युक्तम् ?, उच्यते, समासारम्भक-- वाक्ययोः समासोपचारात्, अथवा अलुक्समासविवक्षया समासाधप्येतो भवतो, यथा कण्ठेकाल इत्यादीत्यदोषः, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याह तन्न ज्ञायते कतरेण समासेन भास ?, किं तत्पुरुषेण कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादितिशेषः स चायं दोषो-धर्मे प्रदेश इति भेदापनिः, यथा कुण्डेवदराणीति, न च प्रदेशेदेशिनौ भेदेनोपलभ्येते, अथ अभेदेऽपि सप्तमीदृश्यते यथा घटेरूपमित्यदि, यहोवमुभयत्रदर्शनात् संशयलक्षणो दोष: स्यात्, अथ कर्म धारयेण भणसि । ततो विशेषेण भण, धम्मे असे पएसे य से त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारयः, एवं च सप्त म्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । श्राह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतयानिर्दिश्यते । उत तदेकदेशवृत्तिः सन् यथा जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेशइत्याशंक्याह- से पएसे धम्मेत्ति, स च प्रदेश: सकलधर्मास्तिका. यादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना पूर्ववत, से 'पएसे नोजीवे से पएसे नोखन्धे' इत्यत्रापि पूर्ववदेवार्थकथनम् । एवं वदन्तं समभिरूडं साम्प्रतमेवंभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत् सर्व समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णम्-श्रात्मस्वरूपेणाविकलं निरवेशेष-तदेवैकत्वान्निरवयवमेकग्रहणगृहीतम एकाभिधाना भिधेयं नानाभिधानाभिधेयं, तानि ह्य कस्मिन्नर्थेऽसौ नेच्छति, अभिधानभे
For Private And Personal Use Only