________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम् यथा एकोऽपि देवदत्तः कदाचिद्राज्ञोभृत्य कदाचिदमात्यादेरिति, एवमाकाशास्तिकायादिप्रदेशोऽपिवाच्यं, तदेवं नैयत्याभावात्तवाप्यनवस्था प्रसज्येतेति. तन्मैवं भण-भाज्यः प्रदेशः, अपितु इत्थं भण-'धम्मे पएसे? [ से पएसे धम्मे ], इत्यादि, इदमुक्तं भवति धर्म प्रदेश इति-धर्मात्मकःप्रदेश इत्यर्थः अत्राह-नन्वयं प्रदेशः सकलधर्मास्तिकायादिव्यतिरिक्त: सन् धर्मात्मक इत्युच्यते, आहोस्वित्तदेकदेशाव्यतिरिक्त सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सँस्तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह 'से पएसे धम्मेऽत्ति स प्रशोधर्मः-सकलधर्मास्तिकायादव्यतिरिक्त-इत्यर्थः, जीवान्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स निःशेष जीवास्तिकायैकदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकाया व्यतिरिक्त एवं सँस्तत्प्रदेशो धर्मात्मक इत्युच्यत इति भावः, । अधर्माकाशास्ति. काययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम् । जीवास्तिकाय तु 'जीवेपएसे से पएसे नोजीवे, त्ति, जीवः प्रदेश इति जीवास्तिकायात्मकः प्रदेशः इत्यर्थः सच प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् सकलजीवास्तिकायैकदेश वृत्तिरित्यर्थः यो ह्य कजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्त जीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मकः प्रदेशो नो स्कन्धः, स्कन्धद्रव्याणामनन्तत्वादेक देशवर्तिरित्यर्थः, । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढ़ः स प्राह-यद्भणसि-धर्म प्रदेशः सप्रदशो धर्म इत्यादि, तन्न भवति-न युज्यते कस्मादित्याह-इह खलु द्वौ समासौ भवतः, तह था-तत्पुरुषः कर्मधार्यश्च, इदमुक्तं भवति,- धम्मे पएसे से पएसे धम्मे इत्युक्ते समासद्वयारम्भकवाक्यद्वयमत्र सम्भाव्यते, तथाहि-यदि धर्म शब्दात्
For Private And Personal Use Only