________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
जैनागमन्यायसंग्रहः निपुणो व्यवहारो भणति,-यद् भणसि पश्चानां प्रदेश इति. तन्न भवति युज्येते, कस्मात् ? यदि यथा पश्चानां गोष्ठिकानां किञ्चद् द्रव्यं सामान्य-एकं भवति, तद्यथा-हिरण्यवेत्यादि, एवं यदि प्रदेशोऽपि स्यात्तत्तो युज्यते वक्तु-पञ्चानां प्रदेश इति इदमुक्तं भवति-यथा केपाश्चित् पंचानां पुरुषणां साधारण किञ्चद्धिरण्यादि भवति, एवं पश्चानामपि धर्मास्तिकायादिद्रव्याणां योकः कश्चित्साधारण: प्रदेश: स्यात्तदेयं वाचो युक्ति घटते, नचैतदस्ति प्रतिद्रव्यं प्रदेश भेदात, तस्मान्मा भण-पंचानां प्रदेशः, अपि तु भण- पंचविध:-पंचप्रकारः प्रदेशः, द्र. व्यलक्षणस्याश्रयस्य पंचविधत्वादिति भावः, तदेवाह-धर्मप्रदेश इत्यादि, एवं वदन्तं व्यवहारमृजुसूत्रो भरणति-यद् भणसि पंचविधः प्रदेशः तन्न भवति, कस्मात् ? यस्माद्यदि ते पंचविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पंचविधः प्राप्तः, शब्दादत्र वस्तु व्यवस्था, शब्दाच्चैवमेव प्रतीतिभवति एवं च सति पंचविंशतिविधः प्रदेशः- प्राप्नोति, तस्मान्मा भण पंचविधः प्रदेशः, किन्त्वेवं भण-भाज्यः प्रदेशः, म्याद्धमस्येत्यादि, इदमुक्तं भवति-भाज्यो- विकल्पनीयो विभजनीयः प्रदेशः, कियभिविभागैः १ स्याद्धर्मप्रदेश इत्यादि पंचभिः, ततश्च पंचभेद एव प्रदेशः सिध्यति, स च यथा स्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुत नयमतेनामत्वादिति । एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद्भांस-भाज्य प्रदेशः, तन्न भवति, कुतो?, यतो यदि भाज्यः प्रदेशः, एवं ते धर्मास्तिकाय प्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः स्याद्, अधर्मातिकायप्रदेशोऽपि कदाचिद् र्धास्तिकायादि प्रदेशः स्याद्, इत्थमपिभजनाया अनिवारित्वात्,
For Private And Personal Use Only