________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
भावप्रमाणम् टीका:-प्रकृष्टोदेशःप्रदेशो-निर्विभागो भाग इत्यर्थ, स एव दृष्टान्त स्तेन नय मताान चिन्त्यन्ते--तत्र नैगमो भणति-धरणां प्रदेशः तद्यथा'धम्मपएसे' इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः, एवमधर्माकाशजोवास्तिकायेष्वपियोज्यं, स्कन्धः-पुद्गलद्रव्यनिचय स्तस्य प्रदेशः स्कन्धप्रदेशः; देशः --एषामेव पंचानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिवृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः, अयं च प्रदेश सामान्या व्यभिचारात् षण्णां प्रदेश इत्युक्त', विशेषविवक्षायां तु षट् प्रदेशा: । एवं वदन्तं नैगमं ततो निपुणतरः संयहो भणति-यद् भणसि पएणां प्रदेश इति, तन्न भवति-तन्न युज्यते, कस्मात् ?, यस्मात् यो देश प्रदेश इति षष्ट स्थाने भवता प्रतिपादितं, तदसङ्गतमेव, यतोधर्मास्ति कायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेश: स वस्तुवृत्या तस्यैव द्रव्यस्य यत्सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्यदेशस्य यः प्रदेशः स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टांत इत्याह–'दासेणे' त्यादि' लोकेऽप्यवं व्यवहति श्यते, यथा कश्चिदाह-मदीय दासेन खरः क्रीतः, तत्र दासोऽपि मदीयः, खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसन्बन्थ्येवेति भावः, तस्मान्मा भण –पएणां प्रदेशः, अपित्वेव भणपञ्चानां प्रदेश इति, स्वदुक्त-पष्ठप्रदेशस्यै वाघटनादित्यर्थः. तदेव दर्शयतितद्यथा-धर्मप्रदेश इत्यादि, एतानि च पंच द्रव्याणि तत्प्रदेशाश्च त्येवमप्यविशुद्धसंग्रह एव मन्यते, अवान्तर द्रव्ये समान्याद्यभ्युपगमात, विशुद्धस्तु द्रव्यवाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुसामान्य क्रोडीकृतत्वेनैकत्वादित्यलं प्रसंगेन । प्रकृतमुच्यते-एवं वदन्तं संग्रहं ततोऽपि
For Private And Personal Use Only