________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम्
२५ प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः, तत्र प्रस्थक दृष्टान्तं दर्शयति, तद्यथानामकः कश्चित्पुरुषः परशु-कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि, इदमुक्त भवति- प्रस्थको-मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादि पुरुषमटवींगच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत्-क भवान् गच्छति ?, तत्राविशुद्ध नैगमो भणति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः, किमित्याह प्रस्थकस्य गच्छामि, इदमुक्त भवति-नके गमा - वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेवगमनं, नतु प्रस्थकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगम परत्वात् कारणे कार्योपचारात् तथाव्यवहार दर्शनादेवमप्यभिधत्तेऽसौ-प्रस्थकस्य गच्छामोति, तंच कश्चित् छिन्दन्तं, वृक्षमिति गम्यते, पश्येद् , दृष्ट्वा च वदेत्-किं भवान् छिनत्ति ?, ततः प्राक्तनात् किंचिद्विशुद्धनैगमनयमतानुसारी सन्नसौ-भणति-प्रस्थकं छिनद्मि, अत्रापि कारणे कार्योपचारात्तथाव्यवहति दर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनमीत्युत्तरं, केवलं काष्ठस्यप्रस्थकं प्रति कारणताभावस्यात्र किंचिदासन्नत्वाद्विशुद्धत्वं, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् , एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया, नबरं तक्ष्णुवन्तं तनूकुर्वन्तं उत्किरतं वेधनकेन मध्याद् विकिरन्तं विलिखन्तंलेखन्या मृष्टं कुर्वाणं, एवमनेनप्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य 'नामाउडिउत्ति आकुट्टितनामा प्रस्थकोऽयमित्येवनामाङ्कितो निष्पन्न: प्रस्थक इति, । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्राधान्येनार्य व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो
For Private And Personal Use Only