________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः व्यवहारनयोऽप्येवमेवप्रतिपद्यते इति भावः । 'संगहस्से त्यादि, सामान्यरुपतया सर्व वस्तु संगृह्णाति-क्रोडीकरोतीति संग्रहस्तस्य मतेन चितादिविशेषणैविशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो-धान्येनव्याप्तः, सच देशतोऽपि भवत्यत आह मितः' पूरित:, अनेनैव प्रकारेण मेयं समारुढं यत्र स आहितादेराकृतिगणत्वान्मेयसमारुढः, अयमत्र भावार्थ:--प्राक्तननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः अनिष्पन्न: प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततोविशुद्धत्वाद्धान्यमानलक्षणं स्वार्थ कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात् , तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः, सोऽपि प्रस्थक सामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्व प्रसंगात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति; । “उज्जुसुयस्से त्यादि. ऋजुसूत्रः-पूवोक्तशब्दार्थ: तस्य निष्पन्नस्वरुपोऽर्थक्रियाहेतुः प्रथिको ऽपि प्रस्थकः, तत्परिछिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात् , तथाप्रतीते , अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोविनष्टानुत्पन्नत्वेनासत्वादिति । 'तिरहसद्दनयाण' मित्यादि, शब्दप्रधाना नयाः शब्दनया :- शब्दसमभिरुद्वैवंभूताः, शब्देऽन्यथा स्थितेऽथमन्यथानेच्छन्न्यमी, किन्तु ?, यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थ गमयन्तीत्यतः शब्दनया उच्यन्ते, अद्यास्तु यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत:-एषां त्रयाणां शब्दनयानां, ‘प्रस्थकार्थाधिकारज्ञः' प्रस्थकस्वरुपपरिज्ञ नोपयुक्तः प्रस्थकः, भावप्रधाना ह्यते नयाइत्यतो
For Private And Personal Use Only