SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ जैनागभन्यायसंग्रहः परिदृश्यमाना पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित् पुरुषः एतदाकारवानेव, पुरुषत्वोत् , अपराकारत्वेतद्धानिप्रसङ्गात् , अश्वादिवदिति, एवंकार्षापणादिष्वपिवाच्यं, विशेषतो दृष्टमाह --' से जहानामए' इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचितकश्चित् पुरुषविशेषं दृष्ट्वा तद्देशनाहितसंस्कारोऽसंजाततत्प्रमोषः समयान्तरे वहुपुरुषसमाजमध्ये तमेवपुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्वमयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात् , उभयाभिमत पुरुषवदिति, एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेष. विषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदय॑साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह -' तस्स समासो तिविहं गहण' मित्यादि, तस्येतिसामान्येनानुवर्तमानमनुमानमात्रं सम्बध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं - ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणं, प्रत्युत्पन्नोवर्तमान कालस्तद्विषयं ग्रहणंप्रत्युत्पन्नकालग्रहणं,अनागतो - भविष्यत्कालस्तद्विषयंग्रहणमनागतकालग्रहणम् , कालत्रय वर्तिनोऽपि विषयस्यानुमानात , परिच्छेदो भवतीत्यर्थः, तत्र 'उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोगः-सुवृिष्टिरिहासीद् , उत्तृणवननिष्पन्नसस्य पृथ्वीतलजलपरिपूर्णकुण्डादिजलाशय प्रभृतितत्कार्यदर्शनात् अभिमतदेशवदित्यतीतस्य वृष्टिलक्षण विषयम्यपरिच्छेदः, साधुच 'गोचराग्रगत भिक्षाप्रविष्टं विशेषेण छर्दितानि-- गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति-सुभिक्षमिह वर्तते, साधूनां तद्ध तुकप्रचुरभक्तपानलाभदर्शनात् , For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy