________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम् वणाई अनिएफएणसस्सं वा मेइणी सुक्काणि अ कुंडसरणईदीहिअतडागाई पासिता तेणं साहिज्जह जहा–कुवुट्ठी आसी, सेतं अतीयकालगहणं । से किं तं पडुप्पएण कालगहणं ? , २ साहुँ गोअरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा-दुभिक्खेवट्टइ, से तं पडुप्पएण काल गहणं । से किं तं अणागयकालगहणं ?, धूमायतिदिसाओ सं (?) विअमेइणी अपडिवद्धा । वाया नेरइया खलु कुवुट्टीमेवंनिवेयंति ॥ ११८ ॥ अग्गेयं वा वायव्वं वा अएणयरं वा अपसत्थं -उप्पायं पासित्ता तेणं साहिज्जइ जहा–कुवुट्ठीभविस्सइ, से तं अणागयकाल गहणं, से तं विसेसदिट्ट, सेतं दिट्ठसाहम्म, से तं अणुमाणे ।
टीका :-दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्य, तद् गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत् , पूर्वदृष्टश्चार्थः कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टःस्यात् , अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयोगात् सामान्यदृष्टं, विशेषतो दृष्टार्थयोगात् विशेषदृष्टं तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि, इदमुक्तं भवति-नालिकरद्वीपादायातः कश्चित् तत्प्रथमतया सामान्यतः एक कश्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गात्, गवादिवत् , बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति यथाऽमी
For Private And Personal Use Only