________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम्
१३
पूर्वदृष्टप्रदेशवदिति । 'अब्भस्स निम्मलत्तं गाहा सुगमा, नवरं स्तनितं - मेघगर्जितं 'वाउ भामो' त्ति तथाविधो वृष्टयव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वात: 'वारुणं' ति आर्द्रामूलादिनक्षत्रप्रभवं माहेन्द्ररोहिगीज्येष्ठा दिनक्षत्रसम्भवं अन्यतरमुत्पातम् उल्कापातदिग्दाहादिकं प्रशस्तं वृष्टयव्यभिचारिणम् दृष्ट्वाऽनुमीयते, यथा - सुवृष्टिरत्रभविष्यति, तद्व्यभिचारिणामभ्र निर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदति, विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्याभिचरन्त्यत: प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति, 'एएसिंचेव विवज्जासे' इत्यादि, एतेषामेवोत्तण्वनादीनामतीतवृष्टयादि साधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे - व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्योः यथा कुवृष्टिरिहासीन्निस्तृणवनादिदर्शनादित्या दिव्यत्ययः सूत्र सिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणाग्नेयवायव्योत्पाता उपन्यस्ताः तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टितत्वादिति । ' से तं विसेसदिडं, से तं दिवस हम्म ' मित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदत्र (द्व) यस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदासाधर्म्यतोSपि सभदेस्यानुमान विशेषत्वात्, कालत्रयविषयता योजनी यैवातस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम् तदेतदनुमानयिति ।
साहम्मोवणी
अथोपमानमभिधित्सुराह -
मूलः - से किं तं श्रवम्मे ? २ दुविहे पण ते तं जहा वेहम्मोवणीए । से किं तं साहम्मोवणीए ?,
.
For Private And Personal Use Only