________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानविषयः
१३७
नुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाशकलविशदकुन्दमालतीकुसुमवासवाहिनः अपरे च केशरतिलकुरुबकशिरीषाङ्कोल्लप्रसूनजम्भमाण परागभाज: तदितेर च करिदशनसकलधयलमल्लिकाबहलपरिमल हारिणः परे च कदम्बकेतकरज:पूरपूरिताम्बराः अपरे तु सप्तच्छद कुसुमरजोधूलिधूसरितविश्वविश्व भराः अविशिष्टविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवनभागांस्तदवश्यममीषां नैयत्यहेतना केनापि भवितव्यं, स च काल इत्य प्रसंगेन, सर्वथा वर्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं, तथा 'जीवः' जन्तुरूपयोगो-मतिज्ञानादि लक्षणं-रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको ह्यु पयोगस्तद्धर्मः, स च स्वसंविदित एवेति, तदनुभवतो रूराद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तल्लक्षणमुच्यते, प्रपश्चितं चैतदिहैव प्रागन्यत्रचेति न पुनः प्रतन्यते, अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च । सामान्य विषयेण 'सुखेन च ' आह्लादरूपेण दुःखेन च-तद्विपरीतेन प्रक्रमाल्लक्ष्यत इति गम्यते, न हि ज्ञानादीन्यजोवेषु कदाचिदुपलभ्यन्त इतिकृत्वा । सम्प्रति विनेयानां दृढतरसंस्काराधनाय उक्तलक्षणमनद्य लक्षणान्तरमाह-' ज्ञानं च ' उक्त रूपमेवं दर्शनं चैव चरित्रं च तपस्तथा · वीर्य वीर्यान्तरायक्षयोपशम समुत्थं सामर्थ्यलक्षणम् 'उपयोगश्च' अवहिततत्वं, किमित्याह-' एतत् । ज्ञानादि जीवस्य लक्षणम्, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यत इति । इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षणमाह–'शब्दः' ध्वनिः 'अंधकारः' तिमिरम्, उभयत्रसूत्रत्वात् सुपोलुक् , ' उद्योतः' रत्नादिप्रकाशः 'प्रभा' चन्द्रादिदीधितिः 'छाया' शैत्यगुणा: 'आतपः ' रविबिम्बजनित उष्णप्रकाशः इति शब्द आद्यर्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, व'
For Private And Personal Use Only