________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
जैनागमन्यायसंग्रहः
-
4
भित्याद्यभाव एवाकाशमिति, एवं सत्याकाशाभाव एव भित्त्यादय इत्यपि किं न भवति । श्रथ तेषां प्रमाणप्रतीतत्वात् इहापि किं न प्रमाणप्रतीति ? तथाहि - वियति विहग इत्यादि, प्रतीत्यन्यथानुपपत्याऽनुमानतस्तत् सिद्धः नचेयं प्रतोतिरन्यथाऽपि संभवतीति न ततस्तत् सिद्धिरिति ( वक्तु ) युक्तं एवं हि भित्त्यादिप्रतीतेरपि भित्त्याद्यभावेऽपि भावकल्पनया तेषामप्यभावप्रसक्तिः, अथ तत् प्रतीतेः प्रामाण्यनिश्चय इति नान्यथात्वकल्पना, एवं तर्हि वक्तव्यं – कुतोऽस्याः प्रमा निश्चयः ? कि प्रमाणान्तरानुग्रहात्, बाधकाभावाद् वा ? यदि प्रमाणान्तरानुग्रहात् किं तन प्रमाणान्तरं ? य इहाबाधितप्रत्ययः स सर्वः प्रमाणं यथा सुखादिप्रत्यय: बाधितप्रत्ययास्वामी भित्यादिप्रत्यया इत्यनुमानमितिचेत् यद्येवमिहापि यो य इह प्रत्ययः स सर्वः सालम्बनो यथेह कुण्डे दधीति प्रत्ययः इह् प्रत्ययश्चायम् इह विहग इति प्रत्ययः इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धि: नत्वाकाशस्य कथं न तत् सिद्धि: ? यदेव ह्याधारमात्रं तदेवाकाशमिति वयं ब्रुमः, अथ वाधकाभावात् ननु वाधकमपि विपरीत प्रत्ययोत्पत्तिरूपं, तदभावश्वोभयत्र समान इति न भित्याद्यभाव एवाकाशं किंतुशु पर रूपमन्यदेव, ततस्तद्भावभावितत्त्वादवगाहस्य कथं न तत् कारणत्वसिद्धिराकाशस्य ? एवञ्च स्थितमेतद् - अवगाहन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नमः, तथा वर्त्तन्ते
"
भवंति भावास्तेन तेन रूपेण तान् प्रतिप्रयोजकत्वं वर्त्तना सा लक्षणं लिङ्गमस्येति वर्त्तना लक्षणः कोऽसौ १ कालः, इदमुक्तं भवति यदमी शीतवातातपादयः ऋतु विभागेन भवन्ति यच केचिच्छशधरकरनिकरा
For Private And Personal Use Only
-