________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
जैनागमन्यायसंग्रहः समुच्चये, वर्णश्च नीलादिः रसश्च–तिक्तादिः गन्धश्च--सुरभ्यादिः पश्चि-शीतादिरेषां द्वन्द्वः, इति शब्देन चाद्यार्थेनैषां ग्रहणेऽपि पुनरुपादानं– सर्वत्रानुयायिताख्यापनार्थ, 'पुद्गलानां स्कन्धादीनां 'तुः, पुनरर्थः लक्षणम् एतैरेव तेषां लक्ष्यत्वात्, आह-पौद्गलिकत्वे शब्दादीनां पुद्गललक्षणत्वं युक्त तच्च कथम् १ उच्यते, शब्दस्तावन्मूर्त्तत्वात् पौद्गलिको, मूर्तिभावोऽस्य प्रतिघातविधायित्वादिभ्यः उक्त हि-"प्रतिघात विधायित्वाल्लोष्टवन्मूर्त्तता ध्वने । द्वारवातानुपाताच्च, धूमवञ्च परिस्फुटम् ।१॥" अन्धकारोद्योत प्रभाणां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वात, प्रयोग श्चात्र-यत्यौद्गलिकं न भवति तच्चक्षुर्विज्ञानविषयमपि न भवति, यथाऽऽत्मादयः, चक्षुर्विज्ञानविषयाश्चान्धकारादयः, अथालोकाभावोऽन्धकारं, तथा च निरुपाख्यत्वेन तस्या सत्त्वमुच्यते, न, सतः सर्वथा निरन्वयाभावस्थाभावेनाभावरूपत्वेऽपि निरुपाख्यत्वासिद्धेः, तथाहि-घटस्य कपालाख्यपर्यायान्तरोत्पत्तिरेवाभावो न पुनरुच्छेदमात्रम्, एवमलोक स्याप्यन्धकाराख्यपर्यायान्तरोत्पत्तिरेवाभावो न तु तथाविधपरमाणुरूपत शाऽप्यभाव एव, इत्थं चैतत् , परिणामित्वाद्वस्तुनः, परिणामस्य च सत एव वस्तुनः पूर्वरूपपरित्यागेन रूपान्तरोत्पत्तिरूपत्वात्, उक्त हि- ‘परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ।। १ ॥” एवं छायाऽऽतपयोरपि पौद्गलिकत्वं वस्तुत्वञ्च भावनीयं , तथा स्पर्शनग्राह्यत्वाच्चानयोः पौद्गलिकत्वं , तथाहिछायाया. शैत्यमातपस्य चौग्णत्वं प्रतिप्राणि प्रतीतमेवेति, अतश्च यत् कैश्चिदुच्यते--शब्दोऽम्बरगुण इत्यादि, तदपास्त भवति, उक्तम्च-अणकः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः । छायाऽऽतपस्तमः शब्दमानेन
For Private And Personal Use Only