________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानविषयः
१३३ कतमानि ? काल: पुद्गल जन्तवश्चोक्तरूपाः, कालस्य चानन्त्यमतीतानागतापेक्षयेति सूत्रार्थः ॥ एषां परस्परभेदनिबन्धनं लक्षणभेदमाह
मूल :-गइलक्खणो उधम्मो, अहम्मो ठाणलक्षणो।
भायणं. सव्वदव्वाणं, नहं ओगाहलक्खणं ॥६॥ वत्तणालक्खणो कालो, जीवो उपयोगलक्खणो । नाणेणं ईसणेण च सुहेण य दुहेण य ॥१०॥ नाणं च दंसणं चेव चरित्त च तवो तहा । वीरियं उवोगे य, एयं जीवस्स लक्खणं ॥११॥ सद्द धयार उजोओ, पभा छाया तवृत्ति वा।
वएणरसगंधफासा, पुग्गलाणं तु लक्खणं ॥१२॥ टीकाः- गमनं गतिः - देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, तुः, पूरणे, कोऽसौ ? धमोस्तिकायः, आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तु युक्तम् , अस्य तु सत्त्वमेवासिद्धम्, अत्रोच्यते, यद्यच्छुद्धपद् वाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, नचायमसिद्धो हेतुः, धर्म इत्यस्यैतद् वाचकस्यासमस्तपदत्वेन तथाऽभिधेयार्थबाधक-प्रमाणा. भावात्, प्रमाणान्तर बाधितविषयत्वाख्यदोषरहितत्त्वेन च सिद्धत्वात् , नच खपुष्पादिषु संकेतितैर्दु :खादि शुद्धपदैरनेकान्तो, वृद्धपरम्परायातसङ्केतविषयाणमेवशुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वात्, निपुणेन
For Private And Personal Use Only