________________
Shri Mahavir Jain Aradhana Kendra
१३४
www.kobatirth.org
जैनागमन्याय संग्रहः
3
प्रतिपत्राभाव्यम्, अन्यथा धूमादेरपि गोपालघटादिष्वन्यथाभावदर्शनादेष प्रसङ्गो दुर्निवारः स्यात् उक्तञ्च - 'श्रत्थित्ति निव्वियप्पो जीवो नियमा उ सहतो सिद्धी । कम्हा ? सुद्ध परत्ता घडरवरसिंगारगुमाणाओ ॥ १ ॥ छाया - अस्तीति निर्विकल्पो जीवो नियमात् शब्दत एव सिद्धि: । कस्मात् । शुद्धपदत्वात् घटखर गानुमानात् ॥ १ ॥ इत्याद्यलं प्रसङ्ग ेन, तथा 'धर्म' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृतिरित्यर्थः । तल्लक्षरणमस्येति स्थानलक्षण:, स हि स्थितिपरिगतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षा कारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते अनेनाप्यनुमानमेव सूचितं तच्चेदम् - यद्यत्कार्य्यं तत्तदपेक्षा कारणवद्, यथाघटादि, कार्यचासौ स्थितिः, यश्च तदपेक्षाकारणं तदधर्मास्तिकाय इति, अत्र च नैयायिकादिः सौगतो वा वदेत् - नास्ति श्रधर्मास्तिकाय:, अनुपलभ्यमानत्वात, शशविषाणवत्, तत्र यदि नैयायिकादिस्तदाऽसौ वाच्यः - कथं भवतोऽपि : गादयः सन्ति ? अथ दिगादिप्रत्ययलक्षणकार्यदर्शनात, भवति हि कार्यात् कारणानुमानम् । एवं सति स्थितिलक्षण कार्यदर्शनादयमत्यस्तीति किं न गम्यते । अथ तत्र दिगादि प्रत्ययकार्यस्यान्यतोऽसंभवात् कारणभूतान् दिगादीननुमिमीमह इति मतिः, इहाप्याकाशादीनामवगाहदानादिस्त्रस्वकार्यव्यापृतत्वेन ततोऽसंभवादधर्मास्ति कायस्यैव स्थितिलक्षणं कार्य्यमिति किं नानुमीयते ? अथासौ न कदाचिद् दृष्टः १ एतद्दिगादिस्वपि समानम् । अथ सौगतः सोऽप्येवं वक्तव्यः यथा - भवतः कथं वाह्यार्थसंसिद्धि: ? नहि कदाचिदसौ प्रत्यक्ष गोचरः, साकारज्ञानवादिनः सदा तदाकारस्यैव संवेदनात्; तथा च तस्या प्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत् कारणमर्थः परि
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only