________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
जैनागमन्यायसंग्रहः तोऽवसीयन्ते, ततश्च द्रव्यगुणपर्यायात्मकमेकं, शबलमणि वच्चित्रपतंगादिवद् वस्त्विति स्थितमिति सूत्रार्थः ॥ आह-गृह्णीमो 'गुणानामश्रयो द्रव्यामिति द्रव्यलक्षणं' तच्चैवलक्षणं द्रव्यं किमेकमेवोत तस्यभेदा अपि सन्तीत्याहमला-धम्मो अधम्मो आगासं कालो पुग्गलजंतवो ।
एस लोगुत्ति पन्नत्तो, जिणेहि वरदसिहि ॥७॥
टीका:-'धर्म' इति धर्मास्तिकायः 'अधर्म' इत्यधर्मास्तिकायः 'आकाश' मित्याकाशास्तिकायः काल' अद्धासमयात्मकः 'पुद्गलजन्तवः, इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेष: प्रसंगतो लोकस्वरूपमप्याह-एष इत्यादि, सुगममेव, नवरमेष इति-सामान्यतः प्रतीतो लोक इत्येवं स्वरूपः, कोऽर्थः १, अनन्तरोक्तद्रव्यषटकात्मकः, उक्तं हि-'धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तविपरीतं ह्यलोकाख्यम् ॥१॥ इति सूत्रार्थ ।। आह किमेतेऽपि धर्मादयो भेदवन्त उतान्यथा ? उभयथाऽपोति मातथाचाह - मूल:-"धम्मो अधम्मो आगासं, दव्वं इक्किक्क माहियं ।
अणंताणि य दव्वाणि कालो पुग्गल जंतवो ॥८॥ टीका-धर्मोऽधर्म आकाशं द्रव्यमिति धर्मादिभिः प्रत्येकं योग्य ते ५ 'एकैकं एक संख्यायो एवैतेषु भावाद् आख्यातं तीर्थकृद्भिरिति गम्यते तत किं कालादिद्रव्याण्यप्येवमेवेत्याह- अनन्तानि' अनन्तसंख्यानि स्वगतभेदानन्त्यात् 'च: पुनरर्थे उत्तरत्र योक्ष्यते, कानि १ द्रव्याणि,
For Private And Personal Use Only