________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानविषयः तथैकस्मिन् द्रव्ये स्वाधारभूते आश्रिताः स्थिताः-एकद्रव्याश्रिताः, के ते ?'गुणाः' रूपादयः, एतेन च ये द्रव्यमेववेच्छन्ति तद्व्यतिरिक्तांश्च रूपादीनविद्योपदर्शितानाहुस्तन्मतनिषेधः कृतः, संविन्निष्ठा हि विषयव्यवस्थितयो, न च रूपाद्युत्कलितरूपं कदाचित्केचिद् द्रव्यमवगतमवगम्य ते वा, अथ तद्विवर्त्त एव रूपादयो न तु तात्त्विकाः केचन तद्भेदेन सन्ति, नन्वेवं रूपादिविवतॊ द्रव्यमित्यपि किं न कल्प्यते ? अथ तथैव प्रतीतेः, एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभयात्मकमस्तु, लक्ष्यतेऽनेनेति लक्षणं 'पर्यवाणां' वक्ष्यमाणरूपाणां तु विशेषणे 'उभयोः' द्वयोः प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः 'भवे' त्ति 'भवेयुः स्युः । अनेन च य एवमाहुः -यदाद्यन्तयोरसत् मध्येऽपि तत्तथैव, यथा मरीचिकादो जलादि, न सन्ति च कुशूलकपालाद्यवस्थयोर्घटादिपर्यायाः, ततो द्रव्यमेवोदिमध्यान्तेषु सत्, पर्यायाः पुनरसत्यैराकाशकेशादिभिः सदृशा अपि भ्रान्तैः सत्यतया लक्ष्यन्ते, यथोक्तम्- “आदावन्ते च यन्नास्ति मध्येऽपि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥” तेऽपाकृताः, तथाहिश्राद्यन्तयोरसत्त्वेनमध्येऽपिअप्यसत्त्वं साधयतामिदमाकूतं- यत् कचिदसत्तत्सर्वस्मिन्नसदिति, ततश्च मृद्रव्येऽप्यद्रव्यस्यासत्त्वात्सर्वस्मिन्नप्यसत्त्वप्रसंगः, अथेष्टमेवैतत् , सत्रामात्रस्यैव तत्त्वत इष्टत्वात्, उक्तं हि- "सर्वमेकं सदविशेषात्” नन्वेवमभावे भावाभावाद्भावस्यापि सर्वत्राभाव प्रसङ्गः, तस्माद्बाधकप्रत्ययोदय एवासत्त्वे निबन्धनमिति न कचिदसत्त्वे तस्यावश्यंभावः, ततो द्रव्यवत्पर्यायाणामप्यबाधितबोधविषयत्वे सत्त्वमस्तु, तथा गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षप्रतीता एव कियत्कालभाविनः, प्रतिसमयभाविनस्तु पुराणत्वाद्यन्यथानुपपत्तेरनुमान
For Private And Personal Use Only