________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३०
जैनागमन्यायसंग्रहः
"
अवबोधकं 'ज्ञानिभिः' अतिशयज्ञानोपेतैः केवलिभिरिति यावत् 'देशित कथितम् । अनेन च यदाहु: - ज्ञानं ज्ञानस्वरूपस्यैव ग्राहकं वाह्यभिमतस्य वस्तुनो ज्ञानातिरिक्तस्यासत्वाद्, अत एवोक्तं - स्वरूपस्य स्वतो गति रिति, तन्निरस्तम्, अन्तः सुखादिप्रतिभासद् वहिः स्थूलप्रतिभासस्यापि स्वसंविदितत्वात् न च युगपद्वेद्यमानयोरेकस्य तात्त्विकत्वमित्तरस्य त्वन्ययात्वमिति निमित्तं विना कल्पयितुं शक्यं, अथैकत्राविद्योपदशितत्वं तत् कल्पनिमित्त', न यतस्तदितरत्रापि किं न कल्प्यते ?, निमित्तं बिना कल्पनाया उभयत्राविशेषात् तथा च ज्ञानस्यप्यभावेन सर्वशून्यतापत्तिरित्यलं प्रसंगेनेति सूत्रार्थः ॥ अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किं लक्षणानी इत्यत आह
"
मूल - गुणाएं आसओ दव्वं, एगदव्वंस्सिया गुणा ।
लक्खणं पज्जवाणं तु उभो असिया भवे ॥ ६ ॥
टीका : 'गुणानां वक्ष्यमारणानां 'आश्रय' आधारो यत्रस्थास्त उत्पद्यन्ते उत्पद्ये चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्, अनेन रूपादय एव वस्तु न तद्व्यतिरिक्तमन्यदिति तथागतमतमपास्तं, तथाहि-यदुत्पादविनाशर्न स्योत्पादविनाशौ न तत्तत्तोऽभिन्नं, यथा घटात्पटो, न भवतश्च पर्यायोत्पादविनाशयोर्द्रव्यस्योत्पादविनाशौ न चायमसिद्धो हेतु:, स्थासकोशकुशूलाद्यवस्थासु मृदादिद्रव्यस्यानुगामित्वेन दर्शनात्, न चास्य मिथ्यात्वं कदाचिदन्यथादर्शनासिद्धेः, उक्तं हि — “योह्यन्यरूपसंवेद्यः, संवेद्येतान्यथा पुनः । स मिथ्या न तु तेनैव, यो नित्यमवगम्यते ॥१॥”
-
For Private And Personal Use Only