________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानविषयः
१२६ स्थानवतित्वात्, ' मणणाणं' ति मनः शब्देन द्रव्यपर्याययोः कथञ्चिद भेदात् मनोद्रव्यपर्याया गृह्यन्ते, तेषु तत्तत् संज्ञिविकल्पहेतुषु ज्ञानं मनो ज्ञानं, तानेव हि मनः पर्यायज्ञानी साक्षादेव वुध्यते नतु वाह्यान, अनुमान गम्यमानत्वात्तेषाम् ; उक्त हि-'जाणति वज्मेऽणुमाणाओ' त्ति चः समुच्चये भिन्नक्रमस्तत: केवलं च, तत्र केवलम्-एकमकलुषं सकलमसाधारणमनन्तं च ज्ञानमिति प्रक्रम , उक्त हि-' केवलमेगं सुद्धं सकलमसाधारणं अणंतं च' छाया- केवलमेकं शुद्धं सकलमसाधारण मनन्तं च । आह-नन्द्यादिषु मतिज्ञानानन्तरं श्रु तज्ञानमुक्त तदिह किमर्थमादित एष श्रुतोपादानं ? उच्यते, शेषज्ञानानामपि स्वरूपज्ञानस्य प्रायस्तदधीनत्वेन प्राधान्यख्यापनार्थमिति सूत्राथैः ।।
साम्प्रतं ज्ञानशब्दस्य सम्बन्धि शब्दत्वाद् येषां तज्ज्ञानं तान्यभिधातुमाहमल -एयं पंचविहं नाणं दवाण य गुणाण य ।
पज्जवाणं च सव्वेसि, नाणं नाणीहिं देसियं ॥शा टीका :- एतद्। अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति गच्छन्ति तास्तानपर्यायानिति द्रव्याणि-वक्ष्यमाणलक्षणानि तेषां 'च' तद्गतानेकभेदख्यापको, गुणानां ---रूपादीनां, च प्राग्वत्, परीति-सर्वतः, कोऽर्थ । द्रव्येषु गुणेषु सर्वेष्ववन्ति-गच्छन्तीति पर्यवास्तेषां च ‘सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकान्ये, सर्व शब्दः शेष ज्ञानापेक्षया तु प्रकारकालय, प्रतिनियतपर्यायग्राहित्वात्तेषां, ज्ञानम्'
For Private And Personal Use Only