________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
१०५
I
व्यञ्जनावग्रहः, आह – प्रथम अर्थावग्रहो भवति ततोऽर्थावग्रहस्तत कस्मोदिह प्रथममर्थावग्रह उपन्यस्त १ उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहिअर्थावग्रहः स्पष्टरूपतया सर्वैरपि जंतुभिः संवेधते शीघ्रतरगमनादौ सकृत्सत्वरमुपलभ्यते, किश्चिद् दृष्टं न परिभाषितं सम्यगिति व्यवहारदर्शनात् अपच अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनाबग्रहस्तु नेति प्रथममर्थावग्रह उक्तः । सम्प्रति व्यञ्जनावग्रहादूध्व अर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावहस्त्ररूपं प्रतिपिपादयिषु प्रश्नं कारयति शिष्य – भंजणोम्हे णं भते ! कवि पं०' इत्यादि, इह व्यञ्जनमपकरणेन्द्रियस्य शब्दादिपरिएतद्रव्याणां च परस्परं सम्बन्ध इत्युक्तं प्राकू, ततश्चतुरणांमेव श्रोत्रादी नामिन्द्रियाणां व्यञ्जनावग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात्, सा चाप्राप्यकारिता नन्दयध्ययनटीकायां प्रदर्शितेति नेह प्रदर्श्यते, अर्थावग्रहः षद्विधः, तद्यथा - 'सोइंदियत्थुगा' इत्यादि श्रोत्रेन्द्रियेणार्थावग्रहों व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यं सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः एवं प्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं चतुर्मनसो स्तुव्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाकल्पनातोतम निर्देश्य सामान्यमात्रस्वरूपार्थावग्रहणमर्थावग्रहोऽवसेयः, 'नोइदि यथाहो' इति नोइन्द्रिय- मनः तच्च द्विधा - द्रव्यरूपं भावरूपच तत्र मनः पर्याप्तिनामकमदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमनं तद् द्रव्यरूपं मनः तथा चाह नन्यध्ययन चूर्णिकृत् '-मणपज्जन्तिनामकम्मोदय जोग्गे मणोद धि मरणत्तेण परिणामिया दव्वा दव्वमणो भन्नइ' इति, तथा द्रव्यमनोऽवष्टम्भेन जोवस्य यो मनःपरिणामः स मात्र मनः तथा चार नन्द ध्ययनक्रिदेव - "जीवो पुण
3
मरणपरिणामक
G
For Private And Personal Use Only