________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेनागमन्यायसंग्रहः टीकाः- “कतिविहेणं भंते ! इंदियअवाए पं०' इत्यादि तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसायः सोऽ पायः, शांख एवायं शाङ्ग एव वायं इत्यादिरूपोऽवधारणात्मको निर्णयोऽवाय इतिभावः । ईहा इति, 'ईह चेष्टायां' ईहनमोहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्त भवति ?–अवग्रहादुत्तरकालमवायात पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूताविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शंखादिशब्दधमा दृश्यन्ते न कर्कशनिष्ठुरतादयः शाङ्गादिशब्दधर्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत - "भूयाभूयविसेसादा णच्चायाभिमुहमीहा"। [ भूताभूतविशेषादानत्यागाभिमुख्यमीहा] — दुविहे श्रोगहे पं०, तं०-वंजणोगहे य अत्थोग्गहे या इति, अवग्रहो द्विविधः - अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्र अवग्रहणमवग्रहः अथस्यावग्रहोऽर्थावग्रहः, अनिदेश्यसामान्यरूपाद्यर्थग्रहणमिति भावः, आइ च नन्द्यध्ययनचूणिकृन् -'" सामन्नस्स रूवाइ विसेसणरहियश्स अनि स्सस्समवग्गहणं अब गह' इति, तथा व्यज्यतेऽनेनार्थः प्रदापेनेव धट इति व्यञ्जनं, तच्च उपकरणेन्द्रियस्य शब्दादिपरिणत द्रव्याणां च यः परस्परं सम्बन्धः, सम्बन्धेहि सति सोऽथे: श्रोत्रादोन्द्रियेण व्यञ्जितु शक्यते नान्यथा ततः सम्बन्धो व्यञ्जनं, आह च भाष्यकृत्-" वंजिञ्जइ जेणत्यो घडोव दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयद्दव्यसंबंधो ॥ १ ॥ छाया-व्यज्यते येनार्थी घट इव दीपेन व्यंजनं, तोपकरणेन्द्रिय शब्दादिपरिणतद्रव्यसंबन्ध: ॥ १॥ व्यञ्जनेन–सम्बन्धेनावग्रहणं – सम्बध्यमानस्य शब्दादिरूपस्यार्थस्यांव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि ‘कृबहुलं' मिति वचनात् कर्मण्यनट, व्यञ्जनानां -शब्दादिरूपतया परिरणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामर्थावग्रह अव्यक्तरूपः परिच्छेदो
For Private And Personal Use Only