________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
१०१ अन्विति - लिङ्गदर्शनसबन्धानुस्मरणयोः पश्चान्मानं-ज्ञानमनुमानम्, एतल्लक्षणमिदम् – 'साध्याविनाभुवो लिंगात्, सायनिश्वायकं स्मृतम्। अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवद् ॥ १॥” इति, एतच्च साध्याविनाभू तहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपन्यं अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपं, उक्तञ्च -- गां दृष्ट्वाऽयमरण्येऽन्यं गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्तुं लकण्ठकम् ॥११॥ तस्यामेव त्ववस्थायां यद्विज्ञानं प्रवर्तते । पशुनैतेन तुल मोऽसौ गोपिण्ड इति सोपमा ॥ २ ॥” इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भनेसंज्ञा संज्ञिसंवन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेने त्यागमः आप्तवचनसंपाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च-दृष्टष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शब्दं प्रकीर्तितम् ॥१॥ आतोपज्ञमनुल्लध्यमदृष्टेष्टविरोधकम् । तत्वोपदेशकृत् सावं शास्त्र कापथघट्टनम्। ॥१॥ इति, इहान्यथानुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतः, स च चतुर्विधः चतुर्भगीरूपत्वात् , तत्र अस्ति-विद्यते तादति लिङ्गभूतं धूमादिवस्तु इति कृत्वा अस्ति सः अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानम् । तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनमानमिति, तथा नास्ति तवृक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं, घटवत्तथा धूमस्यास्तित्वदिहास्त्यग्निर्ममहानस इवेत्यादिकं स्वभावानुमान कार्यानमानंच प्रथमभंगकेन
For Private And Personal Use Only