________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्राहः तिरत्तिीति गृहीतत्वादिति, ततो विषण्ण: शाकटिक इति, अत्रोक्तम् –' सा सगडतित्तिरी वंसगंमि हेमि होइ रणायव्या ।। " इति, स चैवं-- अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीवघटयोरस्तित्वमाविशेषेण वर्त्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वोदिति व्यसको हेतु: घटशब्द विषयघटस्वरूप वत्, अथास्तित्वं जोबादौ न वर्तते तनो जीवाद्यभावः स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति, तथा 'लूसएत्ति लूषयति -मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिको, यथा-धूर्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूत्ते तर्हि देहिमेतर्पणालोडिकामिति, तत धूर्तेनोक्ता स्वभा--देह्यस्मै सतकूनालोड्योति, ताञ्च तथा कुर्वन्ती तद्भार्या गृहीत्वाऽसौ प्रस्थितोऽवदिच्च धूर्त्तमभि-मदीयेयं तर्पणमिति सत्कुनालोड्यतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, स चायं यदि जीवघटयोरस्तित्ववृत्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात् सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति, इहास्तित्व वृत्तविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्यार्थो हिनोति-गमयति प्रमेयमर्थ स वा हीयते-अधिगम्यते अनेनेति हेत:-प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात्, तत्र 'पञ्चक्खे' त्ति अनाति अश्नुते-व्याप्नोत्यानि त्यक्षः-आत्मा तं प्रति यद्वर्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्या, यकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षं व्यवहारतस्तचक्षुरादिप्रभमिति, लक्षणमिदमस्य-'अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरत ज्ञेयं, परोक्षं ग्रहणेक्षया ॥ १॥” ग्रहणापेक्षयेति भावः
For Private And Personal Use Only