________________
( ६९ )
आत्मापि दुःखानि न भोक्तुकामस्तथापि दुःखान्ययमाश्रयेत ॥ १५ ॥ द्रव्यादिसामग्यतथाऽनिवार्यशक्त्यैव कर्माणि तु तादृशान्यपि । स्फुटानि भूत्वा स्वकर्तृकं बलादात्मानमेनं ननु दुःखयन्ति ॥ १६ ॥ युग्मम् ॥ यथेोष्णकालादि समेते कश्चिज्जनः शीतलवस्तुसेवी । मृष्टादिकाम्लादिकरम्यभोजी स्यात्तस्य तद्योगसमुत्थवातः ॥ १७ ॥ वर्षाऋतुं प्राप्य पुरुं प्रकुप्यति प्रायो वपुःस्थः समीर उग्रः ।
४१ द्रव्यमादौ येषां तानि द्रव्यादीनि द्रव्यक्षेत्रकालभावरूपाणि समग्रवस्तूत्पतिस्थितिनाशहेतुभूतानि तेषां सामग्र्यं सामग्री समवायस्तस्य तथेति तादृशी अनन्यरूपा सा चासौ अनिवार्या प्रतिहता बलवती वा सा चासौ शक्तिश्च तथा प्रेरकभूतया तादृशान्यपि जडान्यजीवानि च कर्माणि द्रव्यादिसामग्र्यां सत्यां प्रकटीभूय खेषामात्मीयानां कारकं कर्त्तारं बलादेनमात्मानं दुःखद्वेषिणमपि दुःखयन्ति दुःखिनं कुर्वन्ति अत एव कर्त्रादिकं विनैव द्रव्यक्षेत्रकालभावसामाग्र्या प्रेरकभूतया जडान्यपि कर्माणि कञ्चित् कालमात्मनि स्थित्वापि ततः प्रकटीभूयात्मानं दुःखयन्ति सुखयन्ति वा न तु कर्त्रादिमेरकप्रेरितानि इति भावः । ४२ भूरि ।