________________
(६८) यतो यथा ऽजी_बलप्रणोदिता जीवास्तथा स्युः सुखदुःखमाजः ॥ ११ ॥ स्वभाव एषो ऽस्ति यतस्तु जीवा गृह्णन्ति कर्माणि शुभाशुभानि । अयं तु गृह्णन् गृहयालुभावादेत्तीति कुर्वे खरसान्निजेष्टम् ।। १२ । जडानि कर्माणि न भोगकालं विदन्ति येन प्रकटीभवन्ति । आत्मापि दुःखानि न भोक्तुकामो यदेष दुष्कर्म पुरस्करोति ॥ १३ ॥ तदीह कर्माणि कियन्तमुच्चै- . . . . विलम्ब्य कालं निजकारमात्मकम् । सुखं तथा दुःखमिमं नयन्ति। कुतो विना प्रेरकमेतदेष्यम् ॥ १४ ॥ 'सत्यं तु कर्माणि जडानि सन्ति नाभोगकालं निजकं विदन्ति ।
३८ अजीवा धर्माधर्माकाशपुद्गलकालस्वभावनियतिपूर्वकृत्पुरुषकारद्रव्यक्षेत्रकालभावलक्षणास्तेषां यवलं तेन प्रेरिता व्यापारिताः सन्तो जीवाः सुखदुःखभाजो भवन्ति । पुद्गलेष्वेव कर्याण्यन्तर्भविध्यन्ति इति भावः । ३९ ग्रहणशीलस्वभावात् । ४० वाञ्छनीयम् । :