________________
(६५ ) अथ द्वादशो ऽधिकारः
पृच्छामि पूज्यान प्रणयादिदानी जीवस्तु कर्माणि शुभाशुभानि । भुङ्क्ते सुखषी किमु दुःखितः संस्तदास्ति कश्चिन्ननु कर्मनोदकः ॥ १ ॥ विधिग्रहो वा परमेश्वरो वा कर्ता यमो वा भगवानिहास्तु । प्रणोदकः कर्मगणस्य येन दुःखं सुखं वा परिभोज्यते जगत् ॥ २॥ नैवं यदेतानि भवन्ति कर्मनामानि शास्त्रे पठितानि तद्यथा । भाग्यं स्वभावो भगवानदृष्टं कालो यमो दैवतदैवदिष्टम् ॥ ३ ॥ अहो विधानं परमेश्वरः क्रिया
२९ जीवो हि स्वभावात् सुखैषी दुःखद्वेपी । तेन मुखहेतुशुभकर्माणि स्वेच्छया भुङ्क्ताम् । परं दुःखकारणमशुभकर्म भोक्तं स्वेच्छया न समीहते । तदा ऽशुभकर्मभोगे तु कश्चित् प्रेरको ऽस्तु येनायमास्मा ऽशुभकर्मवलात् दुःखं भोज्यते । स च प्रेरको लौकिकः कश्चिदृश्यमाणो ऽइति पृच्छाकारः प्रेरकपूर्विकां कर्मभुक्तिमाह । तदा कर्मवादी नैवमित्यादिवृत्तत्रयेणोत्तरमाह ।