________________
पुराकृतं कर्म विधा विधिश्च । लोकः कृतान्तो नियतिश्च कत्तों प्राकीर्णप्राचीनविधातृलेखाः ॥ ४ ॥ इत्यादिनामानि पुराकृतस्य शास्त्रे प्रणीतानि तु कर्मतत्वगैः। तदात्मनो न स्वकर्मणो विना सुखस्य दुःखस्य च कारको परः ॥ ५॥ स्थाने त्वजीवानि पुनर्जडानि कर्माणि किं कमिह क्षमाणि । कश्चित्तदेषां परिणोदको ऽस्तु । यच्छक्तितो ऽनि सहीभवन्ति ॥ ६ ॥ इदं तु सत्यं परमत्रकर्मणामेषां स्वभावो ऽस्ति सदेहगेव । विनेरकं यान्यखिलात्मनः स्वयं स्वरूपतुल्यं फलमानयन्ति ॥ ७॥ यतो ऽभिवर्तन्त इमे ऽत्र जीवा अजीवसम्बन्धमधिश्रिताः सदा । जीवन्त्यजीवन्नथ जीवितारस्त्रैकालिकः सङ्गम ऐभिरेषाम् ॥ ८॥
३०, कर्मस्वभावः । ३१ जीवस्य । ३२ कर्माणि ३३ समर्थीभवन्ति । ३४ जीविष्यन्ति । ३९ कर्मभिः । ३६ आत्मनाम् । ,