________________
( ४१ )
तैर्दशसाम्याद बहुभेदभिन्नतर्हि कश्चिन्ननु तैंकरो ऽन्यः ॥ ३४ ॥ भिन्ना भुवि जन्तवो ऽमी सुखस्य दुःखस्य च कर्तृ ब्रह्म । तोर्यतो दुःखसुखे विधत्ते ब्रह्मा स एवास्तु तयोर्विधाता ॥ ३५ ॥ निरञ्जनं नित्यममूर्त्तमक्रियं
सङ्गीर्य्य ब्रह्माथ पुनश्च कारकम् । संहारकं रागरुडादिपात्रकं परस्परध्वंसि वचस्त्यदस्ततः ।। ३६ ।। अतो विभिन्नं जगदेतदेतब्रह्मापि भिन्नं मुनिभिर्व्यचारि । अतस्तु संसारगता मुनीन्द्राः कुर्वन्ति मुक्त्यै परब्रह्मचिन्ता ॥ ३७ ॥ ये केपि मायामिह विष्णुमाश्रितां
૪૩
३८ ब्रह्मांशानाम् । ३९ जीवाः । ४० सुखदुःखादिभेदकरोऽन्यः पदार्थः । ४१ पुण्यपापयोः । द्वेष । ४२ ध्यानम् । ४३ ये केचन वैष्णवाः सन्ति ते च विष्णुनैव कृतं संगै संहारं च वदन्ति यथा च पद्मपुराणे तत्वानुसारिमहादेवकृतभगवत्सहस्रनामपाठे प्रतिपादितम् । यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ इत्याद्यनेकशः पाठैः पठन्तीति तानाश्रित्याह ये के ऽपीत्यादि ।