________________
(४०) देषो ऽपि रागो ऽपि दृशापि वीक्षा नित्यं तदेवास्ति यदेकैरूपम् ।
आकाशवद्याप्तिरियं हि यत्र वाक्येन पञ्चावयवेन कृप्तौं ॥ ३१ ॥ कत्तः स्फुटा सक्रियता मनःस्था सृष्टौ युगान्ते च तदन्यभावे स्यानिष्क्रियत्वं च तथैव रागद्वेषौ जनानां सुखदुःखदृष्ट्या ॥ ३२ ॥ यादृक्रिया तादृशसौख्यदुःखे चेदेवमूहो भतामपि स्यात् । क बैलं किं किल तर्हि सिद्धे स्वपापपुण्ये सुखदुःखहेतू ॥ ३३ ॥ हे ब्रह्मवादिन् यदि जन्तवो ऽमी
ब्रह्मांशकास्तहि समे समाः स्युः। ब्रह्मेति स्वभावः तस्यापि परावृत्त्या कदाचिन्नेत्रेणापि ब्रह्मणो दर्शनं भवेदनेकस्वभावत्वात् यदनेकस्वभावं तन्नित्यं न स्यात् । ३३ नित्यं तदेव यदेकस्वरूपं एकस्वभावमिति । न्यायस्तु एवं । ब्रह्म नित्यं । एकस्वभावत्वात् । यदेकस्वभावं तन्नित्यं यथाकाशं । तथा चेदं । तस्मात्तथेति पञ्चावयत्रवाक्येन या नित्यवस्तुनो व्याप्तिरस्ति सा ब्रह्मणि सक्रियनिःक्रियरक्तद्विष्टादिभिन्नभिन्नानेकस्वभावत्वेन न प्रसक्ता स्यादित्यादि स्वयमूह्यम् । ३४ कृता । ३५ सृष्टिसंहाराभावे । ३६ ब्रह्मवादीति चेदुत्तरयति । ३७ ब्रह्मवादिनामपि ।