________________
( ४२ ) जगद्विधौ हेतुसुदीरयन्त्यथ । प्रष्टव्यमेषामिति किं हि मायां विष्णुः श्रितो विष्णुमथापि माया ॥ ३८ ॥ माया जडा संश्रयितुं स्वयं नो शक्ता तु विष्णुः परब्रमतुल्यः । जानन्स्वयं नाश्रयते हि मायां यत्पारतन्त्र्यादजडो जडं श्रयेत् ॥ ३९ ॥ अथैष विष्णुयुगपन्नुदेत्तां पृथक्पृथग्वा प्रतिजीवमीत्त । आये यदीमां तु नुदेत्रिलोकी तदैकरुपास्तु न भिन्नरूपा ॥ ४० ॥ तदैकरूप्याद्यदि ती पृथक्पृथग् जीवान्प्रतीत न भवेत्तदानीम् ।
अनन्त्यमस्या इयमप्यनेकरूपा च जीवा अपि भिन्नरूपाः ॥ ४१ ॥
नामैवमस्त्वत्र तथापि माया *श्रिता। ४४ परब्रह्माधिकारोक्तविशेषणविशिष्टत्वात् ब्रह्मतुल्यो वा विष्णुव्रह्मापरपयोयो वा विष्णुरिति । ४५ मायां । ४६ यदी सुखमयी तदा मुखमय्येव दुःखमयी दुःखमध्येव न च भिन्नरूपा । ४७ तस्या मायाया एकरूप्यं एकस्वभावता तस्मात् । ४८ मायां । ४९ जीवानामनेकत्वात् ।