________________
( २० ) पञ्चमोऽधिकारः
चेदश्रियाश्रेयकभाव एवं सिद्धोऽस्ति कर्मात्मकयोवश्यम् । जीवास्तु सिद्धा अपि सन्त्यनन्तचतुष्टयेद्धाः परमेष्ठिसञ्ज्ञाः ॥ १॥ पृच्छामि पूज्याः खलु तर्हि सिद्धात्मानो न कर्माणि समाददन्ते । कथं तदेषामपि सौख्यसत्त्वाल्लातां मुकर्माणि निषेधकः कः ॥ २॥ सत्यं यतस्तै सकार्मणाख्यशरीरयोगस्य विनाशभावः। .
-
१५ आधाराधेयभावः । १६ अनन्तज्ञानानन्तदर्शनानन्तसुखानन्तवीर्यलक्षणानन्तचतुष्टयेनेद्धाः दीप्ताः प्रसिद्धा वा । १७ परमे पदेतिष्ठन्तीति परमेष्ठिनः सैव सञ्ज्ञा येषां ते तथा । १८ समाददन्ते ६ समापूर्वो ददिरयं भौवादिकः गृह्णन्तीति । १९ तत्तस्मात्कारणात्
एषां सिद्धजीवानामपि कर्माणि गृह्णतास् । २० गृह्णताम् । २१ तेन तैजसकार्मणलक्षणकर्मग्रहणयोग्यशरीराभावेन शोभनकर्मणां ग्रहणस्या योगादसम्बन्धादभावादित्यर्थः सिद्धात्मानो न कर्माणि लान्तीत्युत्तरसूत्रेण सम्वन्धः एवं सर्वैरपि हेतुभिर्वाक्यपरिसमाप्तिः कर्त्तव्येति ।