________________
( १९ ) स्ततो वपुर्गा न गुणास्तु जीवगाः ॥ ७ ॥ संदृश्यमानं पुनरीदृशं वपुरदृश्य एवैष भवी दधाति चेत् । अरूपिरूपिढयसङ्गमो ह्यसौ विचार्यमाणः कुरुते न कौतुकम् ॥ ८॥ कर्पूरहिङ्ग्यादिकसुष्टुदुष्टुवस्तूत्थगन्धा गगनं श्रिता यथा । तिष्ठन्ति यावस्थिति तबदेव भोः कर्माणि जीवं परिवत्य सन्ति ॥ ९ ॥ इत्यादिभिष्टनिदर्शनैस्तथागुणात्मकैः कर्मभिरेष आत्मकः।। आश्रीयते निर्गुणकोऽपि निश्चितमात्मा ततः कर्मचितो भैवी भवेत् ।। १० ।। इति जैनतत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनःस्थिरीकारे मू"मूर्तयोः कर्मात्मनोराधाराधेयभावसम्बन्धोक्ति
लेशश्चतुर्थोऽधिकारः॥ . ८ अरूपी जीवः रूपीणि देहतदाश्रिताङ्गकर्मक्रियादीनि शोषपोषस्निग्धरुक्षादिदेहधर्मा वा तेषां यद्वयं यमलं तम्य सङ्गमः । सम्बन्धः । ९ यावत्कालं यस्य यादृशी स्थितिवर्तनं स्थितिकालमित्यर्थः । १० आश्रित्य । ११ दृष्टान्तः । १२ स्वरूपैः । १३ युक्तः। १४ कर्मयुक्तो भवी संसारी भवेत् कर्गमुक्तस्तु तद्व्यतिरिक्तः सिद्धो भवेदिति व्यतिरेकद्वारेण पूरणीयं ।