________________
( १६ )
सत्यं कृतिन् सूक्ष्मतमानि तानि पश्यन्ति नो चर्मदृशो हि मादृशाः । ज्ञानी तु सज्ज्ञानदेशो भृशोदया-त्पश्येद्यथाचैव निदर्शनं शृणु ॥ ३० ॥ पात्रे च वस्त्रादिपु गन्धपुद्गलाः सौगन्ध्यदौर्ग व्यवतो हि वस्तुनः । ज्ञेया न ते तेन हि पिण्डभावं गता अपीक्ष्या नयनादिभिस्तु ॥ ३१ ॥ ज्ञानेन जानात्ययमेवमेतं कर्मोचयं जीवगतं तु केवली | तथा पुनः सिद्धरसान्निपीतं स्वर्णादि नो तत्र दृशाभिदृश्यते ॥ ३२ ॥ यदा तु कचिद्रससिद्धयोगी कर्पे तन्न तस्य सत्ता | एवं हि कर्माण्यपि जीवगानि ज्ञानी विजानाति न चापरो ऽत्र ॥ ३३ ॥ इति जैनतत्वसारे जीवकर्मविचारे सुरचन्द्रमनः स्थिरीकारे मूर्तस्याप्यात्मनो मूर्तकर्मग्रहणतत्पिण्डादर्शननिरूपणोक्तिलेशस्तृतीयो ऽधिकारः ॥
८२ दृष्टेः । ८३ यदि सुगन्धदुर्गन्धपुद्गलाः पुद्गलात्मके पात्रादिके वस्तुनि स्थिता न दृश्यास्तर्हि अपुगलात्मके आत्मनि अतिसूक्ष्माः कर्मपुङ्गलाः कथं दृश्याः इत्यर्थः । ८४ अयं प्रसिया सर्वविज्ञातः केवली ।