________________
( १७ ) अथ चतुर्थोऽधिकारः
कर्माणि मूर्त्तान्य(मानमूर्तः साकृत्य॑नाकृत्यभियुक्तिरेषा । न्याय्या कथं येन हि वस्तु भिन्न नाधारकाधेयकतां लभेत ॥१॥ आकर्ण्यतामुत्तरमस्य विज्ञाः कर्मस्वभावादथ जीवशक्तेः। गुणाश्रयो द्रव्यमिति प्रवादीत् संसारिजीवस्य गुणस्तु कर्म ॥२॥ यहा हि ये केचन विश्वमेतत् सकर्तृकं प्राहुरहो समस्तम् । कल्पान्तकाले महति प्रवृत्ते भाव्येव लीनं खलु विष्णुनानि ॥ ३॥ .८५ जीवः । ८६ साकारनिराकार । ८७ मूर्तीमूर्त्तत्वभेदेन भिन्नमपरजातीयं । ८८ ततोऽमूर्तीरूपाधारआत्मा मूर्त्तानां रूपिणां कमणां कथमाधेयभावं धार्यतां प्रामोतीति पृच्छकाशयः । ८९ प्रसिद्धो वादः प्रकृष्टो वा वादः प्रवादः बहुतरतार्किकजनोक्तिस्तस्मात् यथा हि सिद्धात्मनः सम्यग्ज्ञानदर्शनचारित्राणि गुणाः सिद्धस्यापि जीवद्रव्यत्वात् तथा संसारिजीवस्य सकर्मणः कर्म गुणः स्यात् जीवद्रव्यत्वात् । ९० महामलये।९१ भावि भविष्यति । ९२ लीनं स्थायि । ९३ कर्तरि ।