________________
( १५ ) कर्मात्मनैव क्रियते न चाङ्गैः। अरूपिणा रूपि ततश्च कर्म सूक्ष्मं कथं नाम न गृह्यते तत् ॥ २५॥ ध्यानी पुनर्बाह्यगतेन्द्रियैर्विना करोति कर्माणि यथेप्सितानि यत् । जिहां विना ध्यायति मानसं जपं शृणोति तं तं 8वसी ऋते तदा ॥ २६ ॥ विना जलैः पुष्पफलैश्च दीपैः सद्भावपूजां सफलीकरोति । ध्यात्वाऽथ ब्रह्मापि च ब्रह्मवादी न ब्रह्मतामेष लभहिना खैः ॥ २७ ॥ जीवोऽयमेवं करणैः करादिभिविनैव कर्माणि समाश्रयत्यलम् । अचिन्त्यशक्त्या नियतिस्वभावकालेश्व जात्या च कृतप्रणोदः ॥ २८ ॥ कर्माणि जीवैकतरप्रदेशे ऽप्यनन्तसङ्ग्यानि भवन्ति चेत्तदा । कथं न दृश्यानि हि तानि पिण्डी
भूतानि दृष्टया निगदन्तु कोविदाः ॥ २९ ॥ दि वा कर्म, शस्तं च कर्म ज्ञानादिरसग्रहणध्यानादिसम्पादनगुणग्रहणभगवत्स्मरणायनेकं । ७५ अङ्गैः कर्णादिकेन्द्रियरूपैः पाणिपादादिकैश्वावयवैरिति । ७६ जापादिकं आरम्भ । ७७ तस्मिन्जापसमये अन्तरात्मनैव श्रवसी कर्णादि विनैव शृणोत्ययमात्मा । ७८ एष ब्रसवादी ब्रह्मध्याता। ७९ इन्द्रियैः । ८० नथाविधनरजन्मादिना। ८१ प्रेरणः।