________________
( १४६ )
तेभ्यो वयं भवामो बीजाभास्तत्र सूरचन्द्रोऽहं । गणिपद्मवल्लभपडद्वितीको गुरुभ्राता ॥ १९ ॥
अस्मत्त हीरसार
प्रमुखा अङ्कुरकरणैयः सन्ति ।
तेऽपि फलन्तु फलौघैः
सुशिष्य रूपैः प्रमापटुभिः ॥ २० ॥
नासुको वाचकसूरचन्द्रनाम्ना रसज्ञाफलमित्यमिच्छता । ग्रन्थोऽभितोऽग्रन्थि मया स्वकीया - न्यदीयचेतः स्थिरतोपसम्पदे ।। २१ ।।
एवं यथाशेमुषि जैनतत्त्वसारो मयाऽस्मारि मनः प्रसत्त्यै । उत्सूत्रमासूत्रितमत्र किञ्चिद् यत्तद्दिशोध्यं सुविशुद्धधीभिः ॥ २२ ॥
४५ समाः ।