________________
. (१४५ ) श्रीमत्खरतरवरगणसुरगिरिसुरशाखिसन्निभः समभूत् । जिनभद्रसूरिराजो ऽसमः प्रकाण्डोऽभवत्तत्र ॥ १५ ॥ श्रीमेरुसुन्दरगुरुः पाठकमुख्यस्ततो बभूवाथ । तत्र महीयःशाखाप्रायः श्रीक्षान्तिमन्दिरकः ॥ १६ ॥ तार्किकऋषभा अभवन् हर्षप्रियपाठकाः प्रतिलतामाः। तस्यां समभूवन्निह सुरभिततरुमञ्जरीतुल्याः ॥ १७ ॥ चारित्रोदयवाचकनामानस्तेष्वभुः फलसमानाः। श्रीवीरकलशसगुरुखो गीतार्थाः परमसंविमाः ॥ १८ ॥
४३ बृहत् । ४४ प्रतिशाखामाः।